मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् ९

संहिता

उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा॑ वसत शु॒न्ध्यवः॑ ।
उ॒त प॒व्या रथा॑ना॒मद्रिं॑ भिन्द॒न्त्योज॑सा ॥

पदपाठः

उ॒त । स्म॒ । ते । परु॑ष्ण्याम् । ऊर्णाः॑ । व॒स॒त॒ । शु॒न्ध्यवः॑ ।
उ॒त । प॒व्या । रथा॑नाम् । अद्रि॑म् । भि॒न्द॒न्ति॒ । ओज॑सा ॥

सायणभाष्यम्

उतस्म अपिच तेमरुतः परुष्णयां एतन्नामिकायांनद्यां वर्तन्ते यऊर्णाः दीप्तीः शुन्ध्यवः शोधिकाः अपः वसत आच्छादयन्ति तेउता- पिच प्व्या नेम्या रथानां स्वकीयानां रथचक्रेणौजसा बलेनचाद्रिंभिन्दन्ति मेघंगिरिंवाविदारयन्ति ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः