मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् १०

संहिता

आप॑थयो॒ विप॑थ॒योऽन्त॑स्पथा॒ अनु॑पथाः ।
ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ॑हते ॥

पदपाठः

आप॑थयः । विऽप॑थयः । अन्तः॑ऽपथाः । अनु॑ऽपथाः ।
ए॒तेभिः॑ । मह्य॑म् । नाम॑ऽभिः । य॒ज्ञम् । वि॒ऽस्ता॒रः । ओ॒ह॒ते॒ ॥

सायणभाष्यम्

आपथयः अस्मदभिमुखामार्गायेषांतेतादृशाः विपथयोविष्वङ्मार्गाः अन्तस्पथाः दरीसुषिरादिमार्गाः अनुपथाः अनुकूलमार्गाश्च येम- रुतः सन्ति ते एतेभिः एतैश्चतुर्विधैर्नामभिर्नामकैः स्वरूपैर्मह्यं मदर्थं यज्ञं विस्तारः विस्तृताः सन्तः ओहते वहन्ति यद्वा एतैर्नामभिरुदकैः सार्धंयज्ञमोहते ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः