मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् ११

संहिता

अधा॒ नरो॒ न्यो॑ह॒तेऽधा॑ नि॒युत॑ ओहते ।
अधा॒ पारा॑वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या॑ ॥

पदपाठः

अध॑ । नरः॑ । नि । ओ॒ह॒ते॒ । अध॑ । नि॒ऽयुतः॑ । ओ॒ह॒ते॒ ।
अध॑ । पारा॑वताः । इति॑ । चि॒त्रा । रू॒पाणि॑ । दर्श्या॑ ॥

सायणभाष्यम्

अध अथ नरोभिमतवृष्ट्यादिनेतारोन्योहते नितरांहवन्तिजगत् अध नियुतः स्वयमेव मिश्रयितारः सन्तः ओहते अधाथ पारावताः परवद्दूरदेशःतत्संबन्धिनश्च अन्तरिक्षादिदूरदेशे ग्रहतारामेघादिधारकाः सन्तः ओहतइत्यर्थः इतिउक्तप्रकारेण तेषांरूपाणि चित्रा नानाविधानि चायनीयानिवा दर्श्यास्वव्यापारैर्दर्शनीयानिभवंत्वितिशेषः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०