छ॒न्द॒ःस्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो॑ नृतुः ।
ते मे॒ के चि॒न्न ता॒यव॒ ऊमा॑ आसन्दृ॒शि त्वि॒षे ॥
छ॒न्दः॒ऽस्तुभः॑ । कु॒भ॒न्यवः॑ । उत्स॑म् । आ । की॒रिणः॑ । नृ॒तुः॒ ।
ते । मे॒ । के । चि॒त् । न । ता॒यवः॑ । ऊमाः॑ । आ॒स॒न् । दृ॒शि । त्वि॒षे ॥
छन्दःस्तुभः छन्दोभिः स्तोतारः कुभन्यवः उदकेच्छवः कीरिणः स्तोतारः उत्सं कूपमपेक्ष्य तृषिताय गोतमाय यान्मरुतः आनृतुः सर्वतोऽकुर्वन् अनयन्वास्तोत्रं यद्वा येछन्दस्तुभः छन्दोभिःस्तुत्याः स्तोभतिःस्तुतिकर्मा कुभन्यवः सेक्तारोवृष्ट्युदकस्य कुभिरुन्दनकर्मा कीरिणः स्तोतुः गोतमस्यपानार्थं उत्सं कूपं आनृतुः आनीतवन्तः असिंचन्नुत्संगोतमायतृष्णजइतिह्युक्तम् । नॄनयेइत्यस्यवानर्ततेर्वाविक्षेप- मात्रार्थस्येदंरूपं तेमरुतः केचित् मे मह्यं तायवोन कदाचिदप्यदृश्यास्तस्कराइवस्थिताः ऊमारक्षकाः दृशिदर्शने आसन् विषयभूताअ- भवन् केचित् त्विषे शरीरदीप्त्यै बलायवासन् प्राणरूपेणेतिभावः ॥ १२ ॥