मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् १३

संहिता

य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वय॒ः सन्ति॑ वे॒धसः॑ ।
तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया॑ गि॒रा ॥

पदपाठः

यः । ऋ॒ष्वाः । ऋ॒ष्टिऽवि॑द्युतः । क॒वयः॑ । सन्ति॑ । वे॒धसः॑ ।
तम् । ऋ॒षे॒ । मारु॑तम् । ग॒णम् । न॒म॒स्य । र॒मय॑ । गि॒रा ॥

सायणभाष्यम्

येमरुतः ऋष्वाः दर्शनीयाः ऋष्टिविद्युतः आयुधैर्विद्योतमानाः कवयोमेधाविनोवेधसः सर्वत्रविधातारः सन्ति तं तेषांमारुतंगणं रमया रमणीययागिरास्तुत्या हेऋषे श्यावाश्व नमस्य परिचर स्तुहि ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०