मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५२, ऋक् १६

संहिता

प्र ये मे॑ बन्ध्वे॒षे गां वोच॑न्त सू॒रय॒ः पृश्निं॑ वोचन्त मा॒तर॑म् ।
अधा॑ पि॒तर॑मि॒ष्मिणं॑ रु॒द्रं वो॑चन्त॒ शिक्व॑सः ॥

पदपाठः

प्र । ये । मे॒ । ब॒न्धु॒ऽए॒षे । गाम् । वोच॑न्त । सू॒रयः॑ । पृश्नि॑म् । वो॒च॒न्त॒ । मा॒तर॑म् ।
अध॑ । पि॒तर॑म् । इ॒ष्मिण॑म् । रु॒द्रम् । वो॒च॒न्त॒ । शिक्व॑सः ॥

सायणभाष्यम्

येमरुतोमेमह्यं बन्ध्वेषे स्वेषांबन्धूनामन्वेषणेसति सूरयः प्रेरकाः गां माध्यमिकांवाचं गोदेवतांवा प्रवोचन्त प्रावोचन् अवशिष्टमृषे- र्वाक्यं मेऋषिर्मरुद्वाक्यमनुवदति तस्मादुत्तरयोर्निघातयोर्यच्छब्दानन्वयान्निघातः तेपृश्निं द्युदेवतां पृश्निवर्णांगांवा मातरंवोचन्तअब्रुवन् पृश्नियैवैपयसोमरुतोजाताइतिश्रुतेः । अधाथ पितरं स्वकीयं इष्मिणं गमनवन्तमन्नवन्तंवा रुद्रं वोचन्त शिक्वसः शक्तास्ते मरुतां रुद्रेण- पुत्रत्वपरिग्रहोबहुकृत्वउपपादितः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०