मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् १

संहिता

को वे॑द॒ जान॑मेषां॒ को वा॑ पु॒रा सु॒म्नेष्वा॑स म॒रुता॑म् ।
यद्यु॑यु॒ज्रे कि॑ला॒स्य॑ः ॥

पदपाठः

कः । वे॒द॒ । जान॑म् । ए॒षा॒म् । कः । वा॒ । पु॒रा । सु॒म्नेषु॑ । आ॒स॒ । म॒रुता॑म् ।
यत् । यु॒यु॒ज्रे । कि॒ला॒स्यः॑ ॥

सायणभाष्यम्

एषां मरुतां पूर्वसूक्ते प्रस्तुतत्वादत्रान्वोदेशविषयत्वादेषामित्यस्यनिघातता जानमुत्पत्तिं कोवेद जानातिकः पुमान् कोवापुरापूर्वं अप्येषांमरुतां सुम्नेषु सुखेषु आस भवति यद्यदा एते किलास्यः किलासीः पृषतीरित्यर्थः तायुयुज्रे रथेयोजितवन्तः तदैषां स्थितिं बलल- क्षणानिसुखानिच कोजानातीत्यर्थः वेगविषये सर्वत्रवायोरुपमास्पदत्वादितिभावः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११