मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् २

संहिता

ऐतान्रथे॑षु त॒स्थुष॒ः कः शु॑श्राव क॒था य॑युः ।
कस्मै॑ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा॑भिर्वृ॒ष्टयः॑ स॒ह ॥

पदपाठः

आ । ए॒तान् । रथे॑षु । त॒स्थुषः॑ । कः । शु॒श्रा॒व॒ । क॒था । य॒युः॒ ।
कस्मै॑ । स॒स्रुः॒ । सु॒ऽदासे॑ । अनु॑ । आ॒पयः॑ । इळा॑भिः । वृ॒ष्टयः॑ । स॒ह ॥

सायणभाष्यम्

एतान्मरुतोरथेषु तस्थुषः स्थितवतः कआशुश्राव श्रावयेदित्यर्थः यद्वैतेषां क्रोशध्वनिं रथध्वनिंच कःश्रृणुयात् कथा कथं ययुर्गच्छन्ति तदपिकोजानाति यद्वा तान् कथमन्येदेवादयोअनुगच्छेयुः कस्मै सुदासे सुदानाय आपयोबन्धुभूताव्याप्ताः वृष्टयोवर्षकाः अयंकर्तरिक्तिच् इलाभिर्बहुविधैरन्नैःसह सहिताः अनुसस्रुः अनुक्रमेणावतरेयुः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११