मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् ३

संहिता

ते म॑ आहु॒र्य आ॑य॒युरुप॒ द्युभि॒र्विभि॒र्मदे॑ ।
नरो॒ मर्या॑ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ॥

पदपाठः

ते । मे॒ । आ॒हुः॒ । ये । आ॒ऽय॒युः । उप॑ । द्युऽभिः॑ । विऽभिः॑ । मदे॑ ।
नरः॑ । मर्याः॑ । अ॒रे॒पसः॑ । इ॒मान् । पश्य॑न् । इति॑ । स्तु॒हि॒ ॥

सायणभाष्यम्

ऋषिरृग्द्वयाभ्यांमरुत्प्रादुर्भावमाख्यास्यन् अनया प्रादुर्भूतान्पश्यन्नाह-तेमरुतः इत्थंलपते मे मह्यमाहुः येउपाययुः येमरुतोमांप्राप्ताः कैः साधनैः द्युभिर्द्योतमानैः विभिर्गन्तृभिरश्वैः किमर्थं मदे मदाय सोमपानजनिताय किमाहुरिति तदनुब्रूते नरोनेतारोमर्याः मनुष्येभ्योहि- ताः अरेपसोऽलेपास्ते हेऋषे इमानस्मान् पश्यन् तथास्थितान् चक्षुषावलोकयन् स्तुहीत्याहुः यद्वा इतिइत्थंपश्यन् स्तुहीति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११