मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् ५

संहिता

यु॒ष्माकं॑ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः ।
वृ॒ष्टी द्यावो॑ य॒तीरि॑व ॥

पदपाठः

यु॒ष्माक॑म् । स्म॒ । रथा॑न् । अनु॑ । मु॒दे । द॒धे॒ । म॒रु॒तः॒ । जी॒र॒ऽदा॒न॒वः॒ ।
वृ॒ष्टी । द्यावः॑ । य॒तीःऽइ॑व ॥

सायणभाष्यम्

हेजीरदानवः शीघ्रदानाः हेमरुतः युष्माकंरथान् अनुउद्दिश्य मुदे मोदाय दधे धारयामि करोमीत्यर्थः सामर्थ्यातस्तुतीरितिलभ्यते स्मेतिपूरणः वृष्टीवृष्ट्यायतीः सर्वत्रगच्छन्तीः द्यावोदीप्तिरिवदृश्यमानान् रथानितिसंबंधः ॥ ५ ॥ कारीर्यांतिस्रःपिंड्योहोतव्याः तत्रद्वितीयायाआयंनरइत्यनुवाक्या सूत्रितंच-आयंनरःसुदानवोददाशुषेविद्युन्महसोनरोअश्मदिद्य- वइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११