मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् ६

संहिता

आ यं नरः॑ सु॒दान॑वो ददा॒शुषे॑ दि॒वः कोश॒मचु॑च्यवुः ।
वि प॒र्जन्यं॑ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ॥

पदपाठः

आ । यम् । नरः॑ । सु॒ऽदान॑वः । द॒दा॒शुषे॑ । दि॒वः । कोश॑म् । अचु॑च्यवुः ।
वि । प॒र्जन्य॑म् । सृ॒ज॒न्ति॒ । रोद॑सी॒ इति॑ । अनु॑ । धन्व॑ना । य॒न्ति॒ । वृ॒ष्टयः॑ ॥

सायणभाष्यम्

नरोनेतारः सुदानवः शोभनदानाः मरुतोयंकोशं मेघनामैतत् अपांकोशवद्धारकं मेघं ददाशुषे हविर्दत्तवतेयजमानाय दिवोन्तरिक्षात् आअचुच्यवुः आच्यावयन्ति पर्जन्यं मेघं रोदसीअनु द्यावापृथिव्यावनुसृत्य विसृजन्ति विमोचयन्ति पश्चात् धन्वना सर्वत्र गच्छतोदकेन- सह वृष्टयोवृष्टिप्रदामरुतोयन्ति सर्वत्रव्याप्नुवन्ति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२