मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् ७

संहिता

त॒तृ॒दा॒नाः सिन्ध॑व॒ः क्षोद॑सा॒ रज॒ः प्र स॑स्रुर्धे॒नवो॑ यथा ।
स्य॒न्ना अश्वा॑ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त॑न्त ए॒न्य॑ः ॥

पदपाठः

त॒तृ॒दा॒नाः । सिन्ध॑वः । क्षोद॑सा । रजः॑ । प्र । स॒स्रुः॒ । धे॒नवः॑ । य॒था॒ ।
स्य॒न्नाः । अश्वाः॑ऽइव । अध्व॑नः । वि॒ऽमोच॑ने । वि । यत् । वर्त॑न्ते । ए॒न्यः॑ ॥

सायणभाष्यम्

सिन्धवः स्यन्दमानाअपः ततृदानाः निर्भिदन्तोमेघात् मरुतः क्षोदसा उदकेनसह रजोन्तरिक्षं प्रसस्रुः प्रसरन्ति धेनवोयथापयः सिं- चन्त्योनवप्रसूतिकागावइव किंचदृष्टान्तान्तरं स्यन्नाआशुगतयोश्वाइव यथाध्वनोविमोचने मनुष्याणामध्वविमोकायसंचरन्तितथेत्यर्थः यद्यदाएन्यः नदीनामैतत् न्द्योविवर्तन्ते विविधंसंचरन्ति अथवा प्रतिनिवृत्य वर्तन्ते प्रवर्धन्तेइत्यर्थः तदैवंकुर्वन्तीतिपूर्वत्रान्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२