मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् ९

संहिता

मा वो॑ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा व॒ः सिन्धु॒र्नि री॑रमत् ।
मा व॒ः परि॑ ष्ठात्स॒रयु॑ः पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ॥

पदपाठः

मा । वः॒ । र॒सा । अनि॑तभा । कुभा॑ । क्रुमुः॑ । मा । वः॒ । सिन्धुः॑ । नि । री॒र॒म॒त् ।
मा । वः॒ । परि॑ । स्था॒त् । स॒रयुः॑ । पु॒री॒षिणी॑ । अ॒स्मे इति॑ । इत् । सु॒म्नम् । अ॒स्तु॒ । वः॒ ॥

सायणभाष्यम्

हेमरुतोवोयुष्मान् रसा नदीनामैतत् रसानदीभवतीतिनिरुक्तम् । रसनवती शब्दवती अनितभा इताप्राप्ताभायस्याः साइतभा नतादृ- शीअनितभा कुभा कुत्सितदीप्तिश्च मानिरीरमत् मानिकृष्टंरमतु क्रुमुः सर्वत्रक्रमणः सोन्धुः समुद्रश्च मानिरीरमत् तथापुरीषिणीपुरीष- मुदकं तद्वतीस्रयुरपि मापरिष्ठात् परितस्तिष्ठतु मानिरुणद्धु अस्मेइत् अस्मास्वेवअस्तु सुम्नं त्वदागमनजनितंसुखं वोयुष्माकंसंबन्धि युष्मत्स्वभूतम् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२