मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् १०

संहिता

तं व॒ः शर्धं॒ रथा॑नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् ।
अनु॒ प्र य॑न्ति वृ॒ष्टयः॑ ॥

पदपाठः

तम् । वः॒ । शर्ध॑म् । रथा॑नाम् । त्वे॒षम् । ग॒णम् । मारु॑तम् । नव्य॑सीनाम् ।
अनु॑ । प्र । य॒न्ति॒ । वृ॒ष्टयः॑ ॥

सायणभाष्यम्

तंमारुतमित्यनेनसंबध्यते वोयुष्माकं प्रेरकं नव्यसीनांनूतनानां रतानां शर्धं बलं त्वेषं दीप्तं तंमारुतंगणंच स्तौमीत्यर्थः यद्वा रथानां रंहणशीलानां वोयुष्माकं शर्धं परेषामभिभावुकं गणंस्तौमीत्येकमेववाक्यं अथपरोक्षकृतः वृष्टयोयुष्माननुप्रयन्ति प्रकर्षेणगच्छन्ति यद्वा वर्षकामरुतः अनुअनुकूलंप्रकृष्टं यन्तिगच्छन्ति ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२