मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् ११

संहिता

शर्धं॑शर्धं व एषां॒ व्रातं॑व्रातं ग॒णंग॑णं सुश॒स्तिभि॑ः ।
अनु॑ क्रामेम धी॒तिभि॑ः ॥

पदपाठः

शर्ध॑म्ऽशर्धम् । वः॒ । ए॒षा॒म् । व्रात॑म्ऽव्रातम् । ग॒णम्ऽग॑णम् । सु॒श॒स्तिऽभिः॑ ।
अनु॑ । क्रा॒मे॒म॒ । धी॒तिऽभिः॑ ॥

सायणभाष्यम्

हेमरुतः एषांवोयुष्माकं शर्धंशर्धं तत्तद्बलं व्रातंव्रातं अविवक्षितगणोव्राताः तंतंव्रातं वोगणंगणं तंतंसप्तसप्तसमुदायात्मकंगणंगणंच सुशस्तिभिः शाभेनस्तुतिभिः धीतिभिः कर्मभिः हविः प्रदानादिलक्षणैरनुक्रामेम अनुगच्छेम ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३