मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् १३

संहिता

येन॑ तो॒काय॒ तन॑याय धा॒न्यं१॒॑ बीजं॒ वह॑ध्वे॒ अक्षि॑तम् ।
अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो॑ वि॒श्वायु॒ सौभ॑गम् ॥

पदपाठः

येन॑ । तो॒काय॑ । तन॑याय । धा॒न्य॑म् । बीज॑म् । वह॑ध्वे । अक्षि॑तम् ।
अ॒स्मभ्य॑म् । तत् । ध॒त्त॒न॒ । यत् । वः॒ । ईम॑हे । राधः॑ । वि॒श्वऽआ॑यु । सौभ॑गम् ॥

सायणभाष्यम्

हेमरुतोयेनसदयेनमनसा तोकाय पुत्राय तनयाय तत्पुत्राय धनायवा धान्यं बीजं अक्षितं अक्षीणं वहध्वे धारयध्वे तेनचित्तेनास्मभ्यं तद्धान्यंबीजं धत्तन यच्चवोयुष्मानीमहे याचामहे राधोधनं विश्वायु सर्वान्नोपेतं कृत्स्नायुय्ष्योपेतंवा सौभगं सौभाग्यंच तद्धत्तनेतिसमन्वयः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३