मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् १५

संहिता

सु॒दे॒वः स॑महासति सु॒वीरो॑ नरो मरुत॒ः स मर्त्य॑ः ।
यं त्राय॑ध्वे॒ स्याम॒ ते ॥

पदपाठः

सु॒ऽदे॒वः । स॒म॒ह॒ । अ॒स॒ति॒ । सु॒ऽवीरः॑ । न॒रः॒ । म॒रु॒तः॒ । सः । मर्त्यः॑ ।
यम् । त्राय॑ध्वे । स्याम॑ । ते ॥

सायणभाष्यम्

हेसमह प्रशस्तवचनः समहशब्दः हेपूजित मरुतांगण सुदेवः कल्याणमरुत्संज्ञकदेवोपेतः असति भवति हेनरोनेतारः हेमरुतः सुवीरः शोभनपुत्राद्युपेतश्च असति भवति यंमर्त्यं चायध्वे पालयध्वे तेबयंस्यामनुष्मदीयाः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३