मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५३, ऋक् १६

संहिता

स्तु॒हि भो॒जान्त्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से ।
य॒तः पूर्वाँ॑ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ॥

पदपाठः

स्तु॒हि । भो॒जान् । स्तु॒व॒तः । अ॒स्य॒ । याम॑नि । रण॑म् । गावः॑ । न । यव॑से ।
य॒तः । पूर्वा॑न्ऽइव । सखी॑न् । अनु॑ । ह्व॒य॒ । गि॒रा । गृ॒णी॒हि॒ । का॒मिनः॑ ॥

सायणभाष्यम्

हेऋषे स्तुवतः स्तुतिंकुर्वतोऽस्ययजमानस्य यामनि यज्ञे भोजान् दातॄन्मरुतः स्तुहि गावोनयवसे तृणादिभक्षणायगच्छन्त्योगावोय- थारमन्ते तद्वन्मरुतोपि रणन् रमन्तां यतोगच्छतोमरुतः पूर्वान् पुरातनान् सखीनिवानह्वय आह्वय कामिनस्तुतीच्छावतोमरुतोगिरा- स्तुत्या गृणीहिस्तुहि ॥ १६ ॥

प्रशर्धायेतिपंचदशर्चंदशमंसूक्तं श्यावाश्वस्यार्षं मरुद्देबताकं चतुर्दशीत्रिष्टुप् शिष्टाजगत्यः प्रशर्धायपंचोनाजागतमुपन्त्यात्रिष्टुबित्यनु- क्रान्तं सूक्तविनियोगोलैंगिकः आद्यैन्द्रामारुत्याप्रधानस्ययाज्या सूत्रितंच-प्रशर्धायमारुतायस्वभानवइत्यैन्द्रीमनूच्यमारुत्यायजेदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३