मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् २

संहिता

प्र वो॑ मरुतस्तवि॒षा उ॑द॒न्यवो॑ वयो॒वृधो॑ अश्व॒युज॒ः परि॑ज्रयः ।
सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ॥

पदपाठः

प्र । वः॒ । म॒रु॒तः॒ । त॒वि॒षाः । उ॒द॒न्यवः॑ । व॒यः॒ऽवृधः॑ । अ॒श्व॒ऽयुजः॑ । परि॑ऽज्रयः ।
सम् । वि॒ऽद्युता॑ । दध॑ति । वाश॑ति । त्रि॒तः । स्वर॑न्ति । आपः॑ । अ॒वना॑ । परि॑ऽज्रयः ॥

सायणभाष्यम्

हेमरुतोवोयुष्माकं गणाः प्रप्रादुर्भवंति कीदृशागणाः तविषाः दीप्तामहान्तोवा उदन्यवः उदकेच्छवोजगद्रक्षार्थं वयोवृधोन्नस्यवर्धयि- तारः अश्वयुजः ग्मनायरथेशानांयोक्तारः परिज्रयः परितोगन्तारः यदा विद्युतासंदधतिसंगच्छन्ते तदानीं त्रितः त्रिषुस्थानेषु तायमनोमे- घोमरुद्गणोवा वाशति शब्दयति अस्मिन्पक्षेसंघवादोयं तदाआपः परिज्रयः परितोगंत्र्यः आपोवना अवनौभूमौस्वरत्यधः पतंति ॥ २ ॥

विद्युन्महसइतितृतीयाकारीर्यामेवद्वितीयस्याः पिंड्यायाज्या सूत्रितंच-चिद्युन्महसोनरोश्मदिद्यवः कृष्णंनियानंहरयः सुपर्णाइति । तत्पाठस्तु ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४