मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् ३

संहिता

वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ ।
अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा॑दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो॑जसः ॥

पदपाठः

वि॒द्युत्ऽम॑हसः । नरः॑ । अश्म॑ऽदिद्यवः । वात॑ऽत्विषः । म॒रुतः॑ । प॒र्व॒त॒ऽच्युतः॑ ।
अ॒ब्द॒ऽया । चि॒त् । मुहुः॑ । आ । ह्रा॒दु॒नि॒ऽवृतः॑ । स्त॒नय॑त्ऽअमाः । र॒भ॒साः । उत्ऽओ॑जसः ॥

सायणभाष्यम्

विद्युन्महसोविद्योतमानतेजसोनरोवृष्ट्यादेर्नेतारः अश्मदिद्यवोव्याप्तायुधाः अश्मसारमयायुधावा वातत्विषः प्राप्तदीप्तयः पर्वत- च्युतः पर्ततानांमेघानांवाच्यावयितारः अब्दयामुहुः उदकानांदातारः शसोयाजादेशः चिदितिपूरणः ह्रादुनीवृतः ह्रादुन्याः अशनेःप्रवर्त- काः स्तनयदमाः अमाशब्दः साहित्यवाची शब्दोपेतगणाइत्यर्थः रभसा वृष्ट्यर्थमुद्युंजानाः उदोजसः उद्धतबलाः मरुतोवृष्ट्यर्थंप्रदुर्भव- न्तीत्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४