मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् ४

संहिता

व्य१॒॑क्तून्रु॑द्रा॒ व्यहा॑नि शिक्वसो॒ व्य१॒॑न्तरि॑क्षं॒ वि रजां॑सि धूतयः ।
वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ॥

पदपाठः

वि । अ॒क्तून् । रु॒द्राः॒ । वि । अहा॑नि । शि॒क्व॒सः॒ । वि । अ॒न्तरि॑क्षम् । वि । रजां॑सि । धू॒त॒यः॒ ।
वि । यत् । अज्रा॑न् । अज॑थ । नावः॑ । ई॒म् । य॒था॒ । वि । दुः॒ऽगानि॑ । म॒रु॒तः॒ । न । अह॑ । रि॒ष्य॒थ॒ ॥

सायणभाष्यम्

हेरुद्राः रुद्रपुत्रामरुतः अक्तून् रात्रीः विअजथेत्युत्तरार्धगतेनसंबध्यते एवंसर्वत्रेति क्षिपथेतितस्यार्थः अहा अहान्यपि व्यजथ हेशिक्वसः शक्ताः सर्वमपिकर्तुं अन्तरिक्षं व्यजथ तथा रजांसि लोकान् व्यजथ धूतयःकंपकाः यद्यदा अज्रान् मेघान् व्यजथ गमयथ नावर्हं तायथास- मुद्रंतद्वत् दुर्गाणिशत्रुनगराणि विव्यजथ हेमरुतोनाहरिष्यथ नैवहिंसथ ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४