मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् ८

संहिता

नि॒युत्व॑न्तो ग्राम॒जितो॒ यथा॒ नरो॑ऽर्य॒मणो॒ न म॒रुतः॑ कब॒न्धिनः॑ ।
पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्यु॑न्दन्ति पृथि॒वीं मध्वो॒ अन्ध॑सा ॥

पदपाठः

नि॒युत्व॑न्तः । ग्रा॒म॒ऽजितः॑ । यथा॑ । नरः॑ । अ॒र्य॒मणः॑ । न । म॒रुतः॑ । क॒ब॒न्धिनः॑ ।
पिन्व॑न्ति । उत्स॑म् । यत् । इ॒नासः॑ । अस्व॑रन् । वि । उ॒न्द॒न्ति॒ । पृ॒थि॒वीम् । मध्वः॑ । अन्ध॑सा ॥

सायणभाष्यम्

नियुत्वंतोनियुत्संज्ञकैरश्वैस्तद्वन्तोमरुतः ग्रामजितः संघात्मकस्यपदार्थस्यविश्लेषयितारः नरोनराकारानेतारोवामरुतः यद्वा नियुत्व- न्तः अयंशब्दोत्राश्वसामान्येवर्तते नितरां यवनवन्तोश्ववन्तोग्रामजितःग्रामस्यजेतारोनरइवमनुष्याइवतथाभवन्ति अर्यमणोनअर्यमप्रभृ- तयः आदित्याइवदीप्ताइतिशेषः तादृशामरुतःकवंधिनः उदकवन्तोभवन्ति यद्यदा इनासः ईश्वराः उत्स कूपादिनिम्नप्रदेशं मेघंवा पिन्व- न्ति प्याययंत्युदकेन यदा अस्वरन् शब्दयन्ति यदा व्युन्दन्ति पृथिवीं मध्वः मधुर्स्योदकस्यान्धसासारेण तदैवंभवन्ति यद्वा यदा अस्वरन् तदा पिन्वंत्युत्समिनासः तदांधसः पृथिवींव्युन्दन्तीति ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५