मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् ९

संहिता

प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्य॑ः प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्य॑ः ।
प्र॒वत्व॑तीः प॒थ्या॑ अ॒न्तरि॑क्ष्याः प्र॒वत्व॑न्त॒ः पर्व॑ता जी॒रदा॑नवः ॥

पदपाठः

प्र॒वत्व॑ती । इ॒यम् । पृ॒थि॒वी । म॒रुत्ऽभ्यः॑ । प्र॒वत्व॑ती । द्यौः । भ॒व॒ति॒ । प्र॒यत्ऽभ्यः॑ ।
प्र॒वत्व॑तीः । प॒थ्याः॑ । अ॒न्तरि॑क्ष्याः । प्र॒वत्व॑न्तः । पर्व॑ताः । जी॒रऽदा॑नवः ॥

सायणभाष्यम्

इयंपृथिवी मरुद्भ्योमरुतामर्थाय प्रवत्वती प्रवन्तः प्रकर्षवन्तोविस्तीर्णाः प्रदेशायस्यां साप्रवत्वती तादृशी भवति कृत्स्नापिभूमिर्मरु- त्पराभवतीत्यर्थः तां सर्वामपिव्याप्नुवन्तिइतियावत् तथा द्यौरपि प्रयद्भ्यः प्रकर्षेणगच्छद्भ्यः तभ्यः प्रवत्वतीभवति सापिमरुतांसंचाराय तथा अन्तरिक्ष्याः अन्तरिक्षेभवाः पथ्याः सुगतयोपि प्रवत्वतीः प्रवत्वत्योमरुद्भ्योभवन्ति पर्वताः अद्रयोमेघावा प्रवत्वन्तोभवन्ति जीर- दानवः क्षिप्रदानामरुद्भ्यः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५