मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् १०

संहिता

यन्म॑रुतः सभरसः स्वर्णर॒ः सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः ।
न वोऽश्वा॑ः श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ॥

पदपाठः

यत् । म॒रु॒तः॒ । स॒ऽभ॒र॒सः॒ । स्वः॒ऽन॒रः॒ । सूर्ये॑ । उत्ऽइ॑ते । मद॑थ । दि॒वः॒ । न॒रः॒ ।
न । वः॒ । अश्वाः॑ । श्र॒थ॒य॒न्त॒ । अह॑ । सिस्र॑तः । स॒द्यः । अ॒स्य । अध्व॑नः । पा॒रम् । अ॒श्नु॒थ॒ ॥

सायणभाष्यम्

हेमरुतः सभरसः सहबलाः स्वर्णरः सर्वस्यनेतारोयूयं यद्यदा सूर्यउदिते उद्गते मध्याह्ने मदथ सोमेन हेदिवोद्युलोकस्य नरोनेतारः यदा सोमंपातुमिच्छथेत्यर्थः तदावोश्वाः सिस्रतः सरन्तोनहश्रथयन्त नैवश्लथयन्ति सद्यस्तदानीमेवास्याध्वनोदेवयजनमार्गस्य पारम- श्नुथ व्याप्नुथ यद्वा यदा सोमेनमदथ तदा त्वदीयाअश्वानशिथिलाभवन्ति यूयंच कृत्स्नस्य लोकत्रयमार्गस्य पारमश्नुथ ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५