मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् १३

संहिता

यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या॑म र॒थ्यो॒३॒॑ वय॑स्वतः ।
न यो युच्छ॑ति ति॒ष्यो॒३॒॑ यथा॑ दि॒वो॒३॒॑ऽस्मे रा॑रन्त मरुतः सह॒स्रिण॑म् ॥

पदपाठः

यु॒ष्माऽद॑त्तस्य । म॒रु॒तः॒ । वि॒ऽचे॒त॒सः॒ । रा॒यः । स्या॒म॒ । र॒थ्यः॑ । वय॑स्वतः ।
न । यः । युच्छ॑ति । ति॒ष्यः॑ । यथा॑ । दि॒वः । अ॒स्मे इति॑ । र॒र॒न्त॒ । म॒रु॒तः॒ । स॒ह॒स्रिण॑म् ॥

सायणभाष्यम्

हेविचेतसोविविधप्रज्ञाहेमरुतोयुष्मादत्तस्य युष्माभिर्दतस्य वयस्वतोन्नवतोरायोधनस्य स्याम भवेम स्वामिनः के रथ्योरथस्वामि- नोवयं योयुष्माभिर्दत्तोराः नयुच्छति नच्यवते यथा दिवः सकाशात्तिष्यआदित्योनयुच्छति तथा अस्मे अस्मासु सहस्रिणं अपरिमितं तंरायं ररन्त रमयत हेमरुतः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६