मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् १४

संहिता

यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी॑रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् ।
यू॒यमर्व॑न्तं भर॒ताय॒ वाजं॑ यू॒यं ध॑त्थ॒ राजा॑नं श्रुष्टि॒मन्त॑म् ॥

पदपाठः

यू॒यम् । र॒यिम् । म॒रु॒तः॒ । स्पा॒र्हऽवी॑रम् । यू॒यम् । ऋषि॑म् । अ॒व॒थ॒ । साम॑ऽविप्रम् ।
यू॒यम् । अर्व॑न्तम् । भ॒र॒ताय॑ । वाज॑म् । यू॒यम् । ध॒त्थ॒ । राजा॑नम् । श्रु॒ष्टि॒ऽमन्त॑म् ॥

सायणभाष्यम्

हेमरुतोयूयं रयिं धनं स्पार्हवीरं स्पृहणीयैःवीरैः पुत्रभृत्यादिभिरुपेतं धत्थ दत्य हेमरुतोयूयं सामविप्रं साम्नांविविधंप्रेरयितारं यद्वा सामसहिताविप्रायस्यतादृशं ऋषिमवथ रक्षथ हेयूयं अर्वन्तं अश्वं वाजमन्नंचभरताय देवानि बिभ्रते श्यावाश्वाय धत्थ हेमरुतोयूयं राजानं दीप्तंस्वामिनंवा श्रुष्टिमन्तं सुखवन्तं पुत्रमित्यर्थः धत्थ ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६