मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५४, ऋक् १५

संहिता

तद्वो॑ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॒॑र्ण त॒तना॑म॒ नॄँर॒भि ।
इ॒दं सु मे॑ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे॑म॒ तर॑सा श॒तं हिमा॑ः ॥

पदपाठः

तत् । वः॒ । या॒मि॒ । द्रवि॑णम् । स॒द्यः॒ऽऊ॒त॒यः॒ । येन॑ । स्वः॑ । न । त॒तना॑म । नॄन् । अ॒भि ।
इ॒दम् । सु । मे॒ । म॒रु॒तः॒ । ह॒र्य॒त॒ । वचः॑ । यस्य॑ । तरे॑म । तर॑सा । श॒तम् । हिमाः॑ ॥

सायणभाष्यम्

हेसद्यऊतयः तदानीमेवरक्षायेषांतेतादृशाः सद्योगमनावा वोयुष्मान् तद्द्रविणं धनं यामि याचामहे येनधनेन नॄनस्मत्पुत्रभृत्यादीन् अभिततनाम स्वर्णआदित्यइवरश्मीन् हेमरुतोमेमम स्वभूतमिदं इदानींक्रियमाणं वचः स्तोत्रं सु सुष्ठु हर्यत कामयध्वं यस्यस्तोत्रवचसः तरसा बलेनशतं शतसंख्याकान् हिमाः हेमन्तान् तरेम शतसंवत्सरंजीवेमेत्यर्थः ॥ १५ ॥

प्रयज्यवइतिदशर्चंएकादशंसूक्तं श्यावाश्वस्यार्षंमारुतं दशमीत्रिष्टुप् शिष्टाजगत्यः प्रयज्यवोदशान्त्यात्रिष्टुबित्यनुक्रमणिका । आभि- प्ल्विकेषष्ठेहनिआग्निमारुतइदंसूक्तंमारुतनिविद्धानीयं सूत्रितंच-प्रयज्यवइमंस्तोममित्याग्निमारुतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६