मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् १

संहिता

प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो॑ दधिरे रु॒क्मव॑क्षसः ।
ईय॑न्ते॒ अश्वै॑ः सु॒यमे॑भिरा॒शुभि॒ः शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

प्रऽय॑ज्यवः । म॒रुतः॑ । भ्राज॑त्ऽऋष्टयः । बृ॒हत् । वयः॑ । द॒धि॒रे॒ । रु॒क्मऽव॑क्षसः ।
ईय॑न्ते । अश्वैः॑ । सु॒ऽयमे॑भिः । आ॒शुऽभिः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

प्रयज्यव: प्रकर्षेणयष्टारोभ्राजदृष्टयोदीप्तायुधाः मरुतः बृहत् प्रभूतम् वयोयौवनलक्षणं प्रभूतमन्नंवा दधिरे धारयन्ति रुक्मवक्षसोहा- रायतवक्षस्काः तेमरुतः सुयमेभिः सुखेननियमितुंशक्यैः आशुभिः शीघ्रगैरश्वैरीयन्तेप्राप्यन्ते शुभं शोभनंयथाभवतितथा यद्वोदकमभिल- क्ष्य यातां गच्छतां मरुतांरथाअप्यन्ववृत्सत अनुवर्तन्ते ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७