मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् २

संहिता

स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा॑ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा॑जथ ।
उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

स्व॒यम् । द॒धि॒ध्वे॒ । तवि॑षीम् । यथा॑ । वि॒द । बृ॒हत् । म॒हा॒न्तः॒ । उ॒र्वि॒या । वि । रा॒ज॒थ॒ ।
उ॒त । अ॒न्तरि॑क्षम् । म॒मि॒रे॒ । वि । ओज॑सा । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

हेमरुतोयूयं स्वयंअसहायेनैव दधिध्वे धारयध्वे कुरुध्वइत्यर्थः किं तविषीं बलं सामर्थ्यं यथाविद जानीथ अप्रतिबद्धसामर्थ्याइत्यर्थः हेमहान्तोयूयं उर्वियाउरवः सन्तोविराजथ उतापिचान्तरिक्षं ओजसा बलेन विममिरे व्याप्नुथ शुभमित्यादिगतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७