मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् ३

संहिता

सा॒कं जा॒ताः सु॒भ्व॑ः सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा॑वृधु॒र्नरः॑ ।
वि॒रो॒किण॒ः सूर्य॑स्येव र॒श्मय॒ः शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

सा॒कम् । जा॒ताः । सु॒ऽभ्वः॑ । सा॒कम् । उ॒क्षि॒ताः । श्रि॒ये । चि॒त् । आ । प्र॒ऽत॒रम् । व॒वृ॒धुः॒ । नरः॑ ।
वि॒ऽरो॒किणः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

साकं सहैवजाताउत्पन्नाः सुभ्वः सुष्ठुभवन्तः महान्तइत्यर्थः तथैवसाकंसहैवउक्षिताः सेक्तारोवर्षकाः श्रियेचित् शोभायैएव प्रतरं प्रकृष्टतरं आसर्वतोव्वृधुरवर्धयन् नरः कर्मणांनेतारः विरोकिणः विरोचमानाः सूर्यस्येवरश्मयः सूर्यरश्मयइवशुभमित्यादिगतं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७