मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् ४

संहिता

आ॒भू॒षेण्यं॑ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् ।
उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

आ॒ऽभू॒षेण्य॑म् । वः॒ । म॒रु॒तः॒ । म॒हि॒ऽत्व॒नम् । दि॒दृ॒क्षेण्य॑म् । सूर्य॑स्यऽइव । चक्ष॑णम् ।
उ॒तो इति॑ । अ॒स्मान् । अ॒मृ॒त॒ऽत्वे । द॒धा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

हेमरुतः वोयुष्माकं महित्वनं महत्त्वं आभूषेण्यं स्तुत्यं किंच सूर्यस्येवचक्षणंरूपमिवदिदृक्षेण्यं दर्शनीयं उतोअपिचास्मान् अमृतत्वे मोक्षेस्वर्गइत्यर्थः तत्रदधातन धारयत शिष्टंगतं ॥ ४ ॥ कारीर्यांप्रथमस्याः पिंड्याउदीरयथेत्यनुवाक्या सूत्रितंच-उदीरयथामरुतः समुद्रतः प्रवोमरुतस्तविषाउदन्यवइति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७