मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् ५

संहिता

उदी॑रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः ।
न वो॑ दस्रा॒ उप॑ दस्यन्ति धे॒नव॒ः शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

उत् । ई॒र॒य॒थ॒ । म॒रु॒तः॒ । स॒मु॒द्र॒तः । यू॒यम् । वृ॒ष्टिम् । व॒र्ष॒य॒थ॒ । पु॒री॒षि॒णः॒ ।
न । वः॒ । द॒स्राः॒ । उप॑ । द॒स्य॒न्ति॒ । धे॒नवः॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

हेमरुतोयूयंस्मुद्रतः समुर्द्रवणसाधनादन्तरिक्षात् उदीरयथ प्रेरयथवृष्टिं अयमेवार्थः पुनरुच्यते हेपुरीषिणः पृणतेः प्रीणातेर्वापुरीष- मुदकं हेतद्वन्तोयूयं वृष्टिंवर्षयथ हेदस्राः दर्शनीयाः शत्रूणामुपक्षपयितारोवा वोयुष्माकं धेनवः प्रीणयितारोमेघाः नोपदस्यन्ति न्शुष्यन्ति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७