मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् ७

संहिता

न पर्व॑ता॒ न न॒द्यो॑ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् ।
उ॒त द्यावा॑पृथि॒वी या॑थना॒ परि॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

न । पर्व॑ताः । न । न॒द्यः॑ । व॒र॒न्त॒ । वः॒ । यत्र॑ । अचि॑ध्वम् । म॒रु॒तः॒ । गच्छ॑थ । इत् । ऊं॒ इति॑ । तत् ।
उ॒त । द्यावा॑पृथि॒वी इति॑ । या॒थ॒न॒ । परि॑ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

हेमरुतः वोयुष्मान् पर्वताः शिलोच्चयानवरन्त नवारयन्तु तथा नद्यश्च नवारयन्तु किन्तु यत्र यस्मिन् यज्ञादिस्थाने अचिध्वं जानीथ- संकल्पयथ तत्स्थानं गच्छथेदु गच्छथैव उतापिच द्यावापृथिवीच परि परितोयाथनयाथ वृष्ट्यर्थमिति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८