मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् ८

संहिता

यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते॑ वसवो॒ यच्च॑ श॒स्यते॑ ।
विश्व॑स्य॒ तस्य॑ भवथा॒ नवे॑दस॒ः शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

यत् । पू॒र्व्यम् । म॒रु॒तः॒ । यत् । च॒ । नूत॑नम् । यत् । उ॒द्यते॑ । व॒स॒वः॒ । यत् । च॒ । श॒स्यते॑ ।
विश्व॑स्य । तस्य॑ । भ॒व॒थ॒ । नवे॑दसः । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

हेमरुतोयूयं यत्पूर्व्यं पूर्वतनं पूर्वमनुष्ठितंयत्कर्मास्तितदित्यर्थः यच्चनूतनं कर्मास्ति यच्चोद्यते ऊर्ध्वंप्राप्यते स्तूयतेइत्यर्थः हेवस्वोवास- काः यच्च शस्यते शंसनंक्रियते तस्य विश्वस्योत्कृष्टस्य नवेदसः जानन्तोभवथ ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८