मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५५, ऋक् ९

संहिता

मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य॑न्तन ।
अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं॑ या॒तामनु॒ रथा॑ अवृत्सत ॥

पदपाठः

मृ॒ळत॑ । नः॒ । म॒रु॒तः॒ । मा । व॒धि॒ष्ट॒न॒ । अ॒स्मभ्य॑म् । शर्म॑ । ब॒हु॒लम् । वि । य॒न्त॒न॒ ।
अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒न॒ । शुभ॑म् । या॒ताम् । अनु॑ । रथाः॑ । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

हेमरुतः नोस्मान्मृळत सुखयत मावधिष्टन असम्यक्करणादिजनितेनकोपेन मावधिध्वं किंतु अस्मभ्यं शर्म सुखं बहुलं अत्यधिकं विय- न्तन कुरुत किंच स्तोत्रस्यस्तोत्रं सख्यस्य सख्यं अधिगातन अधिगच्छत स्तुतिमनुभूयास्मासुसख्यंकुरुतेत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८