मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५६, ऋक् २

संहिता

यथा॑ चि॒न्मन्य॑से हृ॒दा तदिन्मे॑ जग्मुरा॒शसः॑ ।
ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न्तान्व॑र्ध भी॒मसं॑दृशः ॥

पदपाठः

यथा॑ । चि॒त् । मन्य॑से । हृ॒दा । तत् । इत् । मे॒ । ज॒ग्मुः॒ । आ॒ऽशसः॑ ।
ये । ते॒ । नेदि॑ष्ठम् । हव॑नानि । आ॒ऽगम॑न् । तान् । व॒र्ध॒ । भी॒मऽस॑न्दृशः ॥

सायणभाष्यम्

हेअग्ने त्वं हृदा हृदयेन मरुतोयथाचिन्मन्यसे चिदितिपूजायां येनप्रकारेण अतिपूजितं जानासि तेष्वादरंकरोषीत्यर्थः तदित् तथैव मेमदर्थं जग्मुर्गछन्तु आशसः आशंसितारः इच्छन्तः शत्रुन् हिंसन्तोवा अनन्तरं येमरुतोनेदिष्ठं अत्यंतांतिकंसन्निधावेव ते तव हवनान्याह्वानानिश्रुत्वा आगमन् आगच्छन्ति तान् भीमसंदृशः कालविलंबासहनेनभयंकरदर्शनान् वर्ध वर्धय ह्विःप्रापणेन ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९