मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५६, ऋक् ३

संहिता

मी॒ळ्हुष्म॑तीव पृथि॒वी परा॑हता॒ मद॑न्त्येत्य॒स्मदा ।
ऋक्षो॒ न वो॑ मरुत॒ः शिमी॑वाँ॒ अमो॑ दु॒ध्रो गौरि॑व भीम॒युः ॥

पदपाठः

मी॒ळ्हुष्म॑तीऽइव । पृ॒थि॒वी । परा॑ऽहता । मद॑न्ती । ए॒ति॒ । अ॒स्मत् । आ ।
ऋक्षः॑ । न । वः॒ । म॒रु॒तः॒ । शिमी॑ऽवान् । अमः॑ । दु॒ध्रः । गौःऽइ॑व । भी॒म॒ऽयुः ॥

सायणभाष्यम्

मीह्ळुष्मतीप्रबलस्वामिका पराहत अन्यैरभिभूतापृथिवीव अत्रपृथिवीशब्दस्तदधिष्ठितांप्रजांलक्षयति सायथा स्वस्वामिनमुपद्रुता- भिगच्छतितद्वदिति मरुतांसाकल्येनसर्वथाप्राप्तेर्दृष्टान्तः एवंमदन्तीहृष्यन्ती मरुत्सेना अस्मत् अस्मानित्यर्थः आएति आगच्छति हेमरुतो- वोयुष्माकं अमोबलं गणः ऋक्षोन अग्निरिव शिमीवान् कर्मवान् दुध्रोदुर्धरः गौरिवभीमयुः भीमैर्वृषभैक्तागौरिव सयथा शिमीवान् कर्मवान् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९