मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५६, ऋक् ४

संहिता

नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ ।
अश्मा॑नं चित्स्व॒र्यं१॒॑ पर्व॑तं गि॒रिं प्र च्या॑वयन्ति॒ याम॑भिः ॥

पदपाठः

नि । ये । रि॒णन्ति॑ । ओज॑सा । वृथा॑ । गावः॑ । न । दुः॒ऽधुरः॑ ।
अश्मा॑नम् । चि॒त् । स्व॒र्य॑म् । पर्व॑तम् । गि॒रिम् । प्र । च्य॒व॒य॒न्ति॒ । याम॑ऽभिः ॥

सायणभाष्यम्

येमरुतोओजसा स्वीयेनबलेन निरिणन्ति हिंसन्ति शत्रून् वृथा अनायासेन स्वसंचारमात्रेण गावोन दुर्धुरः दुःखेनहिंस्याअश्वाइव तेम- रुतः स्वर्यं शब्दयन्तं अश्मानं व्याप्तंपर्वतं जगत्पूरकोदकवन्तं पर्ववान्पर्वतः पर्वपुनः पृणातेः प्रीणातेर्बाइतिनिरुक्तम् । तादृशं गिरिं मेघं यद्वा पर्वतमितिविशेष्यंगिरिमितिविशेषणं निगिरत्युदकमितिगिरिः तंयामभिर्गमनैः प्रच्यावयन्ति उदकनिर्गमनार्थं ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९