मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५६, ऋक् ५

संहिता

उत्ति॑ष्ठ नू॒नमे॑षां॒ स्तोमै॒ः समु॑क्षितानाम् ।
म॒रुतां॑ पुरु॒तम॒मपू॑र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ॥

पदपाठः

उत् । ति॒ष्ठ॒ । नू॒नम् । ए॒षा॒म् । स्तोमैः॑ । सम्ऽउ॑क्षितानाम् ।
म॒रुता॑म् । पु॒रु॒ऽतम॑म् । अपू॑र्व्यम् । गवा॑म् । सर्ग॑म्ऽइव । ह्वये ॥

सायणभाष्यम्

हेमरुतोयूयं उत्तिष्ठ उत्तिष्ठत व्यत्ययेनैकवचनं नूनं निश्चयं एषांस्तोमैःस्तोत्रैः समुक्षितानां वर्धितानांमरुतां यद्वा स्तोमैरुपह्वयइति- संबन्धः तादृशां मरुतां पुरुतमं प्रभूततमं अपूर्व्यं नविद्यतेपूर्वोयेभ्यस्तंअपूर्व्यं सर्गं संघं गवामुदकानां प्रसिद्धानांगवांवा सर्गं संघमिवह्वये आह्वये ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९