मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५६, ऋक् ६

संहिता

यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे॑ यु॒ङ्ग्ध्वं रथे॑षु रो॒हितः॑ ।
यु॒ङ्ग्ध्वं हरी॑ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ॥

पदपाठः

यु॒ङ्ग्ध्वम् । हि । अरु॑षीः । रथे॑ । यु॒ङ्ग्ध्वम् । रथे॑षु । रो॒हितः॑ ।
यु॒ङ्ग्ध्वम् । हरी॒ इति॑ । अ॒जि॒रा । धु॒रि । वोळ्ह॑वे । वहि॑ष्ठा । धु॒रि । वोळ्ह॑वे ॥

सायणभाष्यम्

हेमरुतोयूयं रथे युष्मदीये सर्वेषांसाधारणभूते अरुषीरारोचमानावडवाः युङ्ध्वं योजयध्वं तथा रथेषु युष्मदीयेषु रोहितोरोहितव- र्णायुङ्ध्वं हरी अश्वौ अजिरा अजिरौ आशुगमनौ धुरिवोह्ळ्वे वहनाययुङ्ध्वं आदरार्थंपुनरुच्यते वहिष्ठावोढृतमावश्वौधुरिवोह्ळवे ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०