मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५६, ऋक् ७

संहिता

उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः ।
मा वो॒ यामे॑षु मरुतश्चि॒रं क॑र॒त्प्र तं रथे॑षु चोदत ॥

पदपाठः

उ॒त । स्यः । वा॒जी । अ॒रु॒षः । तु॒वि॒ऽस्वनिः॑ । इ॒ह । स्म॒ । धा॒यि॒ । द॒र्श॒तः ।
मा । वः॒ । यामे॑षु । म॒रु॒तः॒ । चि॒रम् । क॒र॒त् । प्र । तम् । रथे॑षु । चो॒द॒त॒ ॥

सायणभाष्यम्

उतापिच स्यः सवाजी वेजनवानरुषआरोचनः तुविष्वणिः प्रभूतध्वनिरश्वः अरुषइत्यनेनरोहितइत्युक्तंभवति प्रष्टिर्वहतिरोहितइति- ह्युक्तम् । इहेदानीं दर्शतोदर्शनीयःसन् धायि रथेनियोजितः स्मेतिपूरणः हेमरुतोवोयामेषु गमनेषु सोश्वश्चिरंविलंबंमाकरत् माकरोतु तं रथेषु रथेयुक्तमितिशेषः प्रचोदत प्रेरयत यथाविलंबंनकुर्यात्तथाप्रेरयत ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०