मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५६, ऋक् ९

संहिता

तं व॒ः शर्धं॑ रथे॒शुभं॑ त्वे॒षं प॑न॒स्युमा हु॑वे ।
यस्मि॒न्त्सुजा॑ता सु॒भगा॑ मही॒यते॒ सचा॑ म॒रुत्सु॑ मीळ्हु॒षी ॥

पदपाठः

तम् । वः॒ । शर्ध॑म् । र॒थे॒ऽशुभ॑म् । त्वे॒षम् । प॒न॒स्युम् । आ । हु॒वे॒ ।
यस्मि॑न् । सुऽजा॑ता । सु॒ऽभगा॑ । म॒ही॒यते॑ । सचा॑ । म॒रुत्ऽसु॑ । मी॒ळ्हु॒षी ॥

सायणभाष्यम्

हेमरुतः वः शर्घं युष्मदीयं बलं गणं रथेशुभं रथेशोभमानं त्वेषं दीप्तं पनस्युं स्तुत्यमाहुवे आह्वये यस्मिन् शर्धे सुजाता सुष्ठुप्रवृद्धा सु- भगा शोभनभाग्या अतिमहती मीह्ळुषी मीह्ळुष्टमशिवतमेत्यादौदर्शनान्मीढ्वान्त्रुद्रः तत्पत्नीमीह्ळुषी मरुत्सु सचा सह महीयते पूज्यते तंशर्धमाहुवे आपस्तंबोपिरुद्रपत्नींमीह्ळुषीसंज्ञयाव्यवजहार उत्तरया दक्षिणस्यामीशानमावाहयति लौकिक्यावाचोत्तरस्यां मीह्ळुषीं मध्येजयन्तमिति ॥ ९ ॥

पंचमेनुवाकेषोडशसूक्तानि तत्रारुद्रासइत्यष्टर्चंप्रथमंसूक्तं श्यावाश्वस्यार्षंमारुतं सप्तम्यष्टम्यौत्रिष्टुभौ शिष्टाषड्जग्त्यः आरुद्रासोष्टौद्वि- त्रिष्टुबन्तमित्यनुक्रमणिका । विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०