मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५७, ऋक् २

संहिता

वाशी॑मन्त ऋष्टि॒मन्तो॑ मनी॒षिणः॑ सु॒धन्वा॑न॒ इषु॑मन्तो निष॒ङ्गिणः॑ ।
स्वश्वा॑ः स्थ सु॒रथा॑ः पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ॑म् ॥

पदपाठः

वाशी॑ऽमन्तः । ऋ॒ष्टि॒ऽमन्तः॑ । म॒नी॒षिणः॑ । सु॒ऽधन्वा॑नः । इषु॑ऽमन्तः । नि॒ष॒ङ्गिणः॑ ।
सु॒ऽअश्वाः॑ । स्थ॒ । सु॒ऽरथाः॑ । पृ॒श्नि॒ऽमा॒त॒रः॒ । सु॒ऽआ॒यु॒धाः । म॒रु॒तः॒ । या॒थ॒न॒ । शुभ॑म् ॥

सायणभाष्यम्

हेमरुतः यूयं वाशीमन्तः वाशीतितक्षणसाधनमायुधं तद्वन्तःस्थ ऋष्टिमन्तः ऋष्टिर्नाम छुरिका तद्वन्तःस्थ एवंसर्वत्रयोज्यं मनीषिणः मनसईश्वराः मनस्विनः सुधन्वानः शोभनधनुष्काः इषुमन्तोबाणवन्तः निषंगिणोनिषंगवन्तः स्वश्वाःस्थ शोभनाश्वाभवथ सुरथाः शोभ- नरथाः पृश्निमातरः पृश्नेःपुत्राः स्वायुधाः खड्गपरश्वादिसकलायुधोपेताः एवंमहात्मानःसन्तः शुभंशोभनंयथाभवतितथाशुभं उदकायवा रथेनयाथन गच्छथ ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१