मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५७, ऋक् ३

संहिता

धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना॑ जिहते॒ याम॑नो भि॒या ।
को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्रा॒ः पृष॑ती॒रयु॑ग्ध्वम् ॥

पदपाठः

धू॒नु॒थ । द्याम् । पर्व॑तान् । दा॒शुषे॑ । वसु॑ । नि । वः॒ । वना॑ । जि॒ह॒ते॒ । याम॑नः । भि॒या ।
को॒पय॑थ । पृ॒थि॒वीम् । पृ॒श्नि॒ऽमा॒त॒रः॒ । शु॒भे । यत् । उ॒ग्राः॒ । पृष॑तीः । अयु॑ग्ध्वम् ॥

सायणभाष्यम्

हेमरुतः द्यांदिवीत्यर्थः पर्वतान् मेघान् दाशुषे हविर्दात्रेयजमानाय वसु धनानिच धूनुथ प्रापयथ वोयुष्माकं यामनः गमनस्यभिया- भीत्या वना वनानि वृक्षादिसमूहानि निजिहते नितरांकंपते अवनताभृशंशंसंतीत्यर्थः हेपृश्निमातरः पृश्नेःपुत्राः पृश्नियैवैपयसोमरुतोजा- ताइतिहिश्रुतिः । हेमरुतः पृथिवीं कोपयथ अभिवृष्ट्या क्षोभयथ हेउग्राउद्गूर्णबलाः यूयं यद्यदा शुभे उदकार्थं पृषतीर्युष्मदीयाअश्वाः अयुग्ध्वं योजयथ तदा कोपयथपृथिवीं ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१