मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५७, ऋक् ४

संहिता

वात॑त्विषो म॒रुतो॑ व॒र्षनि॑र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः ।
पि॒शङ्गा॑श्वा अरु॒णाश्वा॑ अरे॒पस॒ः प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ॥

पदपाठः

वात॑ऽत्विषः । म॒रुतः॑ । व॒र्षऽनि॑र्निजः । य॒माःऽइ॑व । सुऽस॑दृशः । सु॒ऽपेश॑सः ।
पि॒शङ्ग॑ऽअश्वाः । अ॒रु॒णऽअ॑श्वाः । अ॒रे॒पसः॑ । प्रऽत्व॑क्षसः । म॒हि॒ना । द्यौःऽइ॑व । उ॒रवः॑ ॥

सायणभाष्यम्

वातत्विषः सर्वदासंप्राप्तदीप्तयः वर्षनिर्णिजः वृष्टेःशोधयितारः अथवा निर्निगिति रूपनाम वर्षमेवरूपंयेषांतेतादृशाः वृष्टिप्रदाइत्यर्थः यमाइव युगलोत्पन्नाइव सुसदृशः परस्परंबलरूपादिभिरत्यन्तंसरूपाः सुपेशसःशोभरूपाः पिशंगाश्वाः पिशंगवर्णाश्वोपेताः तथा अरुणा- श्वाःअरेपसोअपापाः प्रत्बक्षसः प्रकृष्टंतनूकर्तारोद्वेष्टृणां महिना महत्त्वेन द्यौरिवान्तरिक्षमिव उरवः विस्तीर्णाउक्तलक्षणाः नामभेजिरे- इत्यत्तरेणसंबन्धः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१