मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५७, ऋक् ५

संहिता

पु॒रु॒द्र॒प्सा अ॑ञ्जि॒मन्त॑ः सु॒दान॑वस्त्वे॒षसं॑दृशो अनव॒भ्ररा॑धसः ।
सु॒जा॒तासो॑ ज॒नुषा॑ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ॥

पदपाठः

पु॒रु॒ऽद्र॒प्साः । अ॒ञ्जि॒ऽमन्तः॑ । सु॒ऽदान॑वः । त्वे॒षऽस॑न्दृशः । अ॒न॒व॒भ्रऽरा॑धसः ।
सु॒जा॒तासः॑ । ज॒नुषा॑ । रु॒क्मऽव॑क्षसः । दि॒वः । अ॒र्काः । अ॒मृत॑म् । नाम॑ । भे॒जि॒रे॒ ॥

सायणभाष्यम्

पुरुद्रप्साः प्रभूतोदकाः अंजिमन्तः आभरणवन्तः सुदानवः शॊभनदानाः त्वेषसंदृशोदीप्तरूपाः अनवभ्रराधसोनवभ्रष्टधनाः सुजातासः शोभनजननाः जनुषा जन्मनैव उक्तरूपाः रुक्मवक्षसोहारवक्षस्काः अर्काः पूज्याः मरुतोदिवोद्युलोकादागत्य अमृतमरणसाधनंनामउदकं नमनहेतुकमुक्तलक्षणंहविर्वा भेजिरे लब्धवन्तः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१