मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५७, ऋक् ८

संहिता

ह॒ये नरो॒ मरु॑तो मृ॒ळता॑ न॒स्तुवी॑मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः ।
सत्य॑श्रुत॒ः कव॑यो॒ युवा॑नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा॑णाः ॥

पदपाठः

ह॒ये । नरः॑ । मरु॑तः । मृ॒ळत॑ । नः॒ । तुवि॑ऽमघासः । अमृ॑ताः । ऋत॑ऽज्ञाः ।
सत्य॑ऽश्रुतः । कव॑यः । युवा॑नः । बृह॑त्ऽगिरयः । बृ॒हत् । उ॒क्षमा॑णाः ॥

सायणभाष्यम्

हये हेनरोनेतारः नःमरुतोस्मान् मृळत सुखयत अस्मभ्यंहितायवा सुखिनोभवत हेतुवीमघासः प्रभूतधनाः अमृताः अमरणस्वभावाः ऋतज्ञाः उदकस्ययज्ञस्यवा ज्ञातारः कर्तारइत्यर्थः सत्यश्रुतः सत्येनसत्यफलत्वेनप्रसिद्धाः कवयोमेधाविनः युवानोनित्यतरुणाः बृहद्गिर- यः प्रभूतस्तुतयः बृहदत्यधिकं उक्षमाणाः हविर्भिःसेविताः उदकं वासिंचन्तोयूयंमृळत ॥ ७ ॥

तमुनूनमित्यष्टर्चंद्वितीयंसूक्तं श्यावाश्वस्यार्षंत्रैष्टुभंमारुतं तम्वित्यनुक्रमणिका विनियोगोलैंगिकः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२