मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५८, ऋक् २

संहिता

त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि॑व्रतं मा॒यिनं॒ दाति॑वारम् ।
म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ॥

पदपाठः

त्वे॒षम् । ग॒णम् । त॒वस॑म् । खादि॑ऽहस्तम् । धुनि॑ऽव्रतम् । मा॒यिन॑म् । दाति॑ऽवारम् ।
म॒यः॒ऽभुवः॑ । ये । अमि॑ताः । म॒हि॒ऽत्वा । वन्द॑स्व । वि॒प्र॒ । तु॒वि॒ऽराध॑सः । नॄन् ॥

सायणभाष्यम्

त्वेषं दीप्तंगणं मारुतं तवसं बलवन्तं खादिहस्तं कटकहस्तं धुनिव्रतं कंपयितृकर्माणं मायिनं प्रज्ञावन्तं दातिवारं दत्तधनं हेविप्र होतः वंदस्व स्तुहीतिसंबन्धः येमरुतोमयोभुवः सुखस्यभावयितारः महित्वा महत्त्वेन अमिताः अपरिच्छिन्नाः तान् तुविराधसः प्रभूतधनान् नॄन् नेतॄन् वन्दस्व ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३