मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५८, ऋक् ७

संहिता

प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः ।
वाता॒न्ह्यश्वा॑न्धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः ॥

पदपाठः

प्रथि॑ष्ट । याम॑न् । पृ॒थि॒वी । चि॒त् । ए॒षा॒म् । भर्ता॑ऽइव । गर्भ॑म् । स्वम् । इत् । शवः॑ । धुः॒ ।
वाता॑न् । हि । अश्वा॑न् । धु॒रि । आ॒ऽयु॒यु॒ज्रे । व॒र्षम् । स्वेद॑म् । च॒क्रि॒रे॒ । रु॒द्रिया॑सः ॥

सायणभाष्यम्

एषांमरुतां यामन् यामनि गमनेपृथिवी भूमिः चिदितिपूरणः प्रथिष्ट प्रख्याताभवत् गर्भयोग्याभवदित्यर्थः तेचमरुतोभर्ता लौकिकः- पतिः गर्भमिव भार्यायाः तथाभूम्याः स्वमित् स्वभूतंगर्भं गर्भस्थानीयं शवः उदकं धुः स्थापितवन्तः हियस्मात् वातान् गन्तॄनश्वान् धुरि रथसबन्धिन्यां आयुयुज्रे आयोजितवन्तः तस्माद्वर्षं स्वेदं स्वेदस्थानीयं वृष्टिसंस्त्यायं चक्रिरे कुर्वन्ति रुद्रियासोरुद्रपुत्राः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३