मण्डलवर्गीकरणम्

मण्डलम् ५, सूक्तम् ५९, ऋक् १

संहिता

प्र व॒ः स्पळ॑क्रन्त्सुवि॒ताय॑ दा॒वनेऽर्चा॑ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे ।
उ॒क्षन्ते॒ अश्वा॒न्तरु॑षन्त॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयन्ते अर्ण॒वैः ॥

पदपाठः

प्र । वः॒ । स्पट् । अ॒क्र॒न् । सु॒वि॒ताय॑ । दा॒वने॑ । अर्च॑ । दि॒वे । प्र । पृ॒थि॒व्यै । ऋ॒तम् । भ॒रे॒ ।
उ॒क्षन्ते॑ । अश्वा॑न् । तरु॑षन्ते । आ । रजः॑ । अनु॑ । स्वम् । भा॒नुम् । श्र॒थ॒य॒न्ते॒ । अ॒र्ण॒वैः ॥

सायणभाष्यम्

हेमरुतः वोयुष्मभ्यं सुविताय सुष्ठुप्राप्तव्याय दावने हविःप्रदानाय स्पट् स्प्रष्टा होता प्र प्रकर्षेण अक्रन् क्रन्दति स्तौति वोयुष्मान्वा सुष्ठुप्राप्तव्यायदानयाक्रन् क्रन्दतेःशब्दकर्मणोलडर्थेलुङितिपिरूपं हेहोतः दिवोद्योतमानाय द्युदेवाय प्रार्च प्रकर्षेणस्तुहि हेआत्मन् तथा पृथिव्यै पृथिव्याश्च ऋतं स्तोत्रं भरे संपादयामि द्यावापृथिव्यावपिमरुतामाधारत्वात् अत्रनिपातभाजोभवतः किंच तेमरुतोश्वान् व्याप- कानुदकसंघान् उक्षन्तेसिंचन्ति रजआअन्तरिक्षं आसर्वतस्तरुषन्तेतरन्ति संचरन्ति स्वंभानुं स्वकीयंतेजः अर्णवैःमेघैःसह अनुश्रथयन्ते अनुश्लेषयन्ति अनुकूलंप्रापयन्तीत्यर्थः ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४